|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.115. अध्यायः 115
Mahabharata - Adi Parva - Chapter Topics
अम्बिकायां व्यासाद्धृतराष्ट्रस्योत्पत्तिः॥ 1 ॥ अम्बालिकायां पाण्डोरुत्पत्तिः॥ 2 ॥ अम्बिकादास्यां विदुरस्योत्पत्तिः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-115-0x(704)(5151)
ततः सत्यवती काले वधूं स्नातामृतौ तदा।
संवेशयन्ती शयने शनैर्वचनमब्रवीत्॥ 1-115-1(5152)
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वाऽनुप्रवेक्ष्यति।
अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति॥ 1-115-2(5153)
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे।
साऽचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान्॥ 1-115-3(5154)
`ततः सुप्तजनप्रायेऽर्धरात्रे भगवानृषिः।
दीप्यमानेषु दीपेषु शरणं प्रविवेश ह॥ 1-115-4(5155)
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः।
जगाम तस्याः शयनं विपुले तपसि स्थितः॥ 1-115-5(5156)
तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता।
विरूप इति वित्रस्ता संकुच्यासीन्निमीलिता॥ 1-115-6(5157)
विरूपो हि जटी चापि दुर्वर्णः परुषः कृशः।
सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः॥' 1-115-7(5158)
तस्य कृष्णस्य कपिलां जटां दीप्ते च लोचने।
बब्रूणि चैव श्मश्रूमि दृष्ट्वा देवी न्यमीलयत्॥ 1-115-8(5159)
संभूव तया सार्धं मातुः प्रियचिकीर्षया।
भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम्॥ 1-115-9(5160)
ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह।
अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति॥ 1-115-10(5161)
निशम्य तद्वचो मातुर्व्यासः सत्यवतीसुतः।
`प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः॥' 1-115-11(5162)
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः।
महाभागो महावीर्यो महाबुद्धिर्भविष्यति॥ 1-115-12(5163)
तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः।
किंतु मातुः स वैगुण्यादन्ध एव भविष्यति॥ 1-115-13(5164)
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाऽब्रवीत्।
नान्धः कुरूणां नृपतिरनुरूपस्तपोधन॥ 1-115-14(5165)
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम्।
`अपरस्यामपि पुनर्मम शोकविनाशनम्॥ 1-115-15(5166)
तस्मादवरजं पुत्रं जनयान्यं नराधिपम्।
भ्रातुर्भार्याऽवरा चेयं रूपयौवनशालिनी॥ 1-115-16(5167)
अस्यामुत्पादयाऽपत्यं मन्नियोगाद्गुणाधिकम्।'
द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि॥ 1-115-17(5168)
स तथेति प्रतिज्ञाय निश्चक्राम महायशाः।
साऽपि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम्॥ 1-115-18(5169)
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः।
ऋषिमावाहयत्सत्या यथापूर्वमरिन्दम॥ 1-115-19(5170)
`अम्बालिकां समाहूय तस्यां सत्यवती सुतम्।
भूयो नियोजयामास सन्तानाय कुलस्य वै॥ 1-115-20(5171)
विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे।
कोन्वेष्यतीति ध्यायन्ती नियतां संप्रतीक्षते'॥ 1-115-21(5172)
ततस्तेनैव विधिना महर्षिस्तामपद्यत।
अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम्॥ 1-115-22(5173)
विवर्णा पाण्डुसंकाशा समपद्यत भारत।
तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य भारत॥ 1-115-23(5174)
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्।
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह॥ 1-115-24(5175)
तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति।
नाम चास्यैतदेवेह भविष्यति शुभानने॥ 1-115-25(5176)
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः।
ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाऽब्रवीत्॥ 1-115-26(5177)
`कुमारो ब्रूहि मे पुत्र अप्यत्र भविता शुभः।'
शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम्॥ 1-115-27(5178)
`भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः।
पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति॥ 1-115-28(5179)
तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै।
इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह॥' 1-115-29(5180)
तं माता पुनरेवान्यमेकं पुत्रमयाचत।
तथेति च महर्षिस्तां मातरं प्रत्यभाषत॥ 1-115-30(5181)
ततः कुमारं सा देवी प्राप्तकालमजीजनत्।
पाण्डुलक्षणसंपन्नं दीप्यमानमिव श्रिया॥ 1-115-31(5182)
यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः।
`तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः॥ 1-115-32(5183)
कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः।
अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम्॥ 1-115-33(5184)
कौसल्यार्थे समाहूय पुत्रमन्यमयाचत।
अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम्॥ 1-115-34(5185)
एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत।
नियता यदि कौसल्या भविष्यति पुनःशुभा॥ 1-115-35(5186)
भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित्।
तां समाधाय वै भूयः स्नुषां सत्यवती पुनः॥' 1-115-36(5187)
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत्।
सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तं॥ 1-115-37(5188)
नाकरोद्वचनं देव्या भयात्सुरसुतोपमा।
ततःस्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम्॥ 1-115-38(5189)
प्रेषयामास कृष्णाय ततः काशिपतेः सुता।
सा तं त्वृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च॥ 1-115-39(5190)
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह।
`वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च॥' 1-115-40(5191)
कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः।
तया सहोषितो राजन्महर्षिः संशितव्रतः॥ 1-115-41(5192)
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि।
अयं च ते शुभे गर्भः श्रेयानुदरमागतः।
धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः॥ 1-115-42(5193)
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः।
धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः॥ 1-115-43(5194)
धर्मो विदुररूपेण शापात्तस्य महात्मनः।
माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः॥ 1-115-44(5195)
कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत्।
प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च॥ 1-115-45(5196)
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च।
तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत॥ 1-115-46(5197)
एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि।
जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः॥ ॥ 1-115-47(5198)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चादशाधिकशततमोऽध्यायः॥ 115 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-115-42 अभुजिष्या अदासी॥ 1-115-45 प्रलम्भमात्मस्थोने दासीनियोजनम्॥ पञ्चादशाधिकशततमोऽध्यायः॥ 115 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|